श्रीरामरक्षा स्तोत्र

444 Views
6 Min Read
श्रीरामरक्षा स्तोत्र
श्रीरामरक्षा स्तोत्र

श्रीरामरक्षा स्तोत्र हे भक्तांच्या हृदयातील श्रद्धा, प्रेम, आणि विश्वासाने ओतप्रोत भरलेले आहे. प्रत्येक अक्षरात रामभक्तांच्या गाढ श्रद्धेचा ओलावा जाणवतो. हे स्तोत्र म्हणजे प्रभू श्रीरामचंद्रांच्या अनंत कृपेचा अमृतधारा आहे. भक्तांनो, हे स्तोत्र वाचताना किंवा पठण करताना मनातील भावना गहिवरून येतील, हृदय श्रीरामांच्या चरणांमध्ये पूर्णतः लीन होईल.

हे स्तोत्र म्हणजे रामभक्तांना संकटाच्या काळात आधार देणारी ढाल आहे. “राम” या नावाच्या स्मरणातच सर्व त्रास, दुःख, आणि पापांचं नाश होतं. श्रीरामरक्षा स्तोत्रातील प्रत्येक ओळ, प्रत्येक शब्द आपल्या जीवनाला नवी ऊर्जा आणि भक्तिभावाने भरून टाकतो.

श्रीरामरक्षा पठणाच्या वेळेस श्रीरामचंद्रांच्या कृपेचा अनुभव असा आहे की जणू आपण त्यांच्या अलौकिक प्रेमाच्या छायेत उभे आहोत, जेथे कोणतंही संकट जवळ येऊ शकत नाही. रामनामा हे भक्तांसाठी सर्व दुखांचे निवारण करणारे आहे. हे स्तोत्र म्हणजे श्रीरामचंद्रांच्या चरणांशी जोडणारा पवित्र सेतू आहे, जो भक्तांना जीवनाच्या प्रत्येक क्षणी आनंदाने चालण्याचा मार्ग दाखवतो.

श्रीरामरक्षा स्तोत्र
श्रीरामरक्षा स्तोत्र

 

श्रीरामरक्षा स्तोत्र हे भगवान श्रीरामांची कृपा मिळवण्यासाठी अतिशय प्रभावी असे स्तोत्र मानले जाते. याचे रचयिता  बुधकौशिक ऋषी आहेत. खाली श्रीरामरक्षा स्तोत्र दिले आहे:

॥ श्रीगणेशाय नमः ॥

विनियोगः

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य । बुधकौशिक ऋषिः ।

श्रीसीतारामचन्द्रो देवता । अनुष्टुप् छन्दः । सीता शक्तिः । श्रीमद् हनुमान् कीलकम् ।

श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥

॥ अथ ध्यानम् ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं ।

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥

वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं ।

नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥

॥ स्तोत्रम् ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १ ॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ २ ॥

सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ३ ॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु भालं दशरथात्मजः ॥ ४ ॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५ ॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६ ॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७ ॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥ ८ ॥

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।

पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ९ ॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १० ॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११ ॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ १२ ॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३ ॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ १४ ॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ १५ ॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६ ॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७ ॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८ ॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ १९

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २० ॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन् मनोरथान् नश्च रामः पातु सलक्ष्मणः ॥ २१ ॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ २२ ॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३ ॥

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४ ॥

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ॥ २५ ॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं ।

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् ।

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारीम् ॥ २६ ॥

ामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७ ॥

श्रीराम राम रघुनन्दन राम राम ।

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम ।

श्रीराम राम शरणं भव राम राम ॥ २८ ॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।

श्रीरामचन्द्रचरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि ।

श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥ २९ ॥

माता रामो मत्पिता रामचन्द्रः ।

स्वामी रामो मत्सखा रामचन्द्रः ।

सर्वस्वं मे रामचन्द्रो दयालुः ।

नान्यं जाने नैव जाने न जाने ॥ ३० ॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३१

लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ३२ ॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३३ ॥

कूजन्तं राम रामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ३४ ॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५ ॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ ३६ ॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे ।

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् ।

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७ ॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८ ॥

॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥

॥ श्रीसीतारामचन्द्रार्पणमस्तु

जय श्रीराम!

The short URL of the present article is: https://moonfires.com/ors0
Share This Article
Follow:
राज पिछले 20 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे हैं। इनको SEO और ब्लॉगिंग का अच्छा अनुभव है। इन्होने एंटरटेनमेंट, जीवनी, शिक्षा, टुटोरिअल, टेक्नोलॉजी, ऑनलाइन अर्निंग, ट्रेवलिंग, निबंध, करेंट अफेयर्स, सामान्य ज्ञान जैसे विविध विषयों पर कई बेहतरीन लेख लिखे हैं। इनके लेख बेहतरीन गुणवत्ता के लिए जाने जाते हैं। Founder Of Moonfires.com
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

Are you human? Please solve:Captcha